|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.68. अध्यायः 068
Mahabharata - Karna Parva - Chapter Topics
कर्णबाणव्यथापनोदनाय युधिष्ठिरं शिबिरगतं विज्ञाय शत्रुनिग्रहे भीमनियोजनपूर्वकमर्जुनेन सह श्रीकृष्णस्य तत्समीपं प्रति गमनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-68-0x(4995)(58325)
ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशाम्पते।
रथेनापययौ क्षिप्रं सङ्ग्रामादिति भारत॥ 8-68-1(58326)
प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम्।
अलं विषहितुं ह्येष कुरूणां सम्प्रपश्यताम्॥ 8-68-2(58327)
कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति।
विश्वमार्थं च कौरव्य पार्थस्य च महात्मनः।
अपयातो रणाद्वीरो राजानं द्रष्टुमेव च॥ 8-68-3(58328)
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः।
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि॥ 8-68-4(58329)
ततो धनञ्जयः श्रुत्वा राजानं शल्यपीडितम्।
याहियाहिति बहुशो वासुदेवमचोदयत्।
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः॥ 8-68-5(58330)
स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः।
रथेनापययौ क्षिप्रं सङ्ग्रामाद्धोरदर्शनात्॥ 8-68-6(58331)
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया।
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम्॥ 8-68-7(58332)
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत।
दुःसहं वज्रिणा सङ्ख्ये पराजित्य गुरोः सुतम्॥ 8-68-8(58333)
द्रौणिं पराजित्य ततोग्रधन्वा
कृत्वा महद्दुष्करं शूरकर्म।
आलोकयामास ततः स्वसैन्यं
धनञ्जयः शत्रुभिरप्रधृष्यः॥ 8-68-9(58334)
संयुध्यमानान्पृतनामुखस्था--
ञ्शूरः शूरान्हर्षयन्सव्यसाची।
पूर्वापदानैः प्रथितैः प्रशंस--
न्स्थितांश्चकारात्मरथाननीके॥ 8-68-10(58335)
अपश्यमानस्तु किरीटमाली
युधिष्ठिरं भ्रातरमाजमीढम्।
उवाच भीमं तरसाभ्युपेत्य
राज्ञः प्रवृत्तिस्त्विह कुत्र चेति॥ 8-68-11(58336)
भीमसेन उवाच। 8-68-12x(4996)
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः।
कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन॥ 8-68-12(58337)
अर्जुन उवाच। 8-68-13x(4997)
तस्माद्भवाञ्शीघ्रमितः प्रयातु
ज्ञातुं प्रवृत्तिं पुरुषर्षभस्य।
नूनं स विद्धोऽतिभृशं पृषत्कैः
कर्णेन राजा शिबिरं गतोऽसौ॥ 8-68-13(58338)
यः सम्प्रहारैर्युधि सम्प्रवृत्ते
द्रोणेन विद्धोऽतिभृशं तरस्वी।
तस्थौ स तत्रापि जयप्रतीक्षो
द्रोणेन यावन्न हतः किलासीत्॥ 8-68-14(58339)
स संशयं गमितः पाण्डवाग्र्यः
सङ्ख्येऽद्य कर्णेन महानुभावः।
ज्ञातुं प्रयाह्याशु तमद्य भीम
स्थास्याम्यहं शत्रुगणान्निरुध्य॥ 8-68-15(58340)
भीमसेन उवाच। 8-68-16x(4998)
त्वमेव जानीहि महानुभाव
राज्ञः प्रवृत्तिं भरतर्षभस्य।
अहं हि यद्यर्जुन याम्यमित्रा
वदन्ति मां भीत इति प्रवीराः॥ 8-68-16(58341)
ततोऽब्रवीदर्जुनो भीमसेनं
संशप्तकाः प्रत्यनीकस्थिता मे।
एतानहत्वाद्य मया न शक्य--
मितोपयातुं रिपुसङ्खमध्यात्॥ 8-68-17(58342)
अथाब्रवीदर्जुनं भीमसेनः
स्ववीर्यमासाद्य कुरुप्रवीर।
संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये
सर्वानहं याहि धनञ्जय त्वम्॥ 8-68-18(58343)
तद्भीमसेनस्य वचो निशम्य
धनञ्जयो भ्रातुरमित्रमध्ये।
द्रष्टुं कुरुश्रेष्ठमभिप्रयास्य--
न्प्रोवाच वृष्णिप्रवरं तदानीम्॥ 8-68-19(58344)
अर्जुन उवाच। 8-68-20x(4999)
`राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः'।
चोदयाश्वान्हृषीकेश विहायैतद्बलार्णवम्।
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव॥ 8-68-20(58345)
सञ्जय उवाच। 8-68-21x(5000)
`तं रथ चोदयामास बीभत्सोर्वचनाद्धरिः'॥ 8-68-21(58346)
ततो हयान्सर्वदाशार्हमुख्यः
प्रचोदयन्भीममुवाच चेदम्।
नैतच्चित्रं तव कर्माद्य भीम
यास्यावहे जहि पार्थारिसङ्घान्॥ 8-68-22(58347)
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः।
शीघ्राच्छीघ्रतरो राजन्वाजिभिर्गरुडोपमैः॥ 8-68-23(58348)
प्रत्यनीके त्ववस्थाप्य भीमसेनमरिन्दमम्।
सन्दिश्य चैनं राजेन्द्र युद्धं प्रति वृकोदरम्॥ 8-68-24(58349)
ततस्तु गत्वा पुरुषप्रवीरौ
राजानमासाद्य शयानमेकम्।
रथादुभौ प्रत्यवरुह्य तस्मा--
द्ववन्दतुर्धर्मराजस्य पादौ॥ 8-68-25(58350)
`इत्येवमुपसङ्गृह्य उभौ तु पाञ्जली स्थितौ।
शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ।
निहत्य वाहिनीं तुभ्यमपयातौ रणाजिरात्'॥ 8-68-26(58351)
तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभम्।
मुदाभ्यनन्दतां कृष्णावश्विनाविव वासवम्॥ 8-68-27(58352)
तावभ्यनन्दद्राजापि विवस्वानश्विनाविव।
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः॥ 8-68-28(58353)
मन्यमानो हतं कर्णं प्रीतः परपुरञ्जयः।
`स भूत्वा पुरुषव्याघ्रो राजा तत्र युधिष्ठिरः'।
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः॥ ॥ 8-68-29(58354)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टषष्टितमोऽध्यायः॥ 68 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-68-9 ततोग्रधन्वा विस्तारितोग्रचापः॥ 8-68-11 उवाच तं पप्रच्छ॥ 8-68-24 प्रत्यनीके शत्रुसैन्यरामीपे॥ 8-68-68 अष्टषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|